(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.50. अध्यायः 050
Mahabharata - Vana Parva - Chapter Topics
दमयनत्यां समुत्कण्ठितेन नलंन वने विहरत्सु हंसेष्वेकतमस्य ग्रहणम् ॥ 1 ॥ प्रतिक्रियाप्रतिज्ञानेन आत्मानं मोचितवता हंसेन नलगुणानुवर्णनेन दमयन्त्या नले रागोत्पादनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

बृहदश्व उवाच। 3-50-0x(1915)(17802)
आसीद्राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥ 3-50-1(17803)
`यज्वा दानपतिर्दक्षः सदा शीलपुरस्कृतः'।
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥ 3-50-2(17804)
ब्रह्मण्यो वेदविच्छ्ररो निषधेषु महीपतिः।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥ 3-50-3(17805)
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः।
रक्षिताधन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥ 3-50-4(17806)
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः ॥ 3-50-5(17807)
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः।
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥ 3-50-6(17808)
तं स भीमः प्रजाकामस्तोषयामास धर्मवित्।
महिष्या सह राजेनद्र सत्कारेण सुवर्चसम् ॥ 3-50-7(17809)
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥ 3-50-8(17810)
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्।
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥ 3-50-9(17811)
दमयन्ती तु रूपेण तेजसा वपुषा श्रिया।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥ 3-50-10(17812)
अथ तां वसि प्राप्ते दासीनां समलंकृतम्।
शतं सखीनां च तदा पर्युपास्ते शचीमिव ॥ 3-50-11(17813)
तत्र स्म राजते भैमी सर्वाभरणभूषिता।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा ॥ 3-50-12(17814)
अतीव रूपसंपन्ना श्रीरिवायतलोचना।
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ॥ 3-50-13(17815)
मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता।
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥ 3-50-14(17816)
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि।
कंदर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥ 3-50-15(17817)
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥ 3-50-16(17818)
तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान्।
अन्योन्यं प्रतिकौन्तेय स व्वर्धत हृच्छयः ॥ 3-50-17(17819)
अशक्नवन्नलः कामं तदा धारयितुं हृदा।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥ 3-50-18(17820)
स ददर्शै ततो हंसाञ्जातरूपपरिच्दान्।
वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥ 3-50-19(17821)
ततो।डन्तरिक्षगो वाचं व्याजहार नलं तदा।
हन्तव्योस्मि न तेराजन्करिष्यामि तवप्रियम् ॥ 3-50-20(17822)
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥ 3-50-21(17823)
`तव चैव यथा भार्या भविष्यति तथाऽनघ।
विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान् ॥' 3-50-22(17824)
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः।
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥ 3-50-23(17825)
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके।
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥ 3-50-24(17826)
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥ 3-50-25(17827)
अथ हंसा विससृपुः सर्वतः प्रमदावने।
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन् ॥ 3-50-26(17828)
दमयन्ती तु यं हंसं समुपाधावदन्तिके।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥ 3-50-27(17829)
दमयन्ति नलो नाम निषधेषु महीपतिः।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥ 3-50-28(17830)
[कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्।]
तस्य वै यदिभार्या त्वं भवेथा वरवर्णिनि।
सफलंते भवेज्जन्म रूपं चेदं सुमध्यमे ॥ 3-50-29(17831)
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्।
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥ 3-50-30(17832)
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥ 3-50-31(17833)
एवमुक्ता तु हंसेन दमयन्ती विशांपते।
अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद ॥ 3-50-32(17834)
तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य विशांपते।
पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥ 3-50-33(17835)

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-50-1 उपपन्नो युक्तः ॥ 3-50-12 सौदामनी प्रावृषेण्यमेघसंबन्धिनी ॥ 3-50-15 मूर्तिमान् शरीरी ॥ 3-50-16 प्रशशंसुः वार्ताहरा इति शेषः ॥ 3-50-17 हृच्छयः कामः ॥ 3-50-19 जातरूपपरिच्छदान् सुवर्णपक्षान् ॥ 3-50-20 अन्तरिक्षगः खगः ॥ 3-50-24 गरुत्मन्तः पक्षिणः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.