|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.50. अध्यायः 050
Mahabharata - Vana Parva - Chapter Topics
दमयनत्यां समुत्कण्ठितेन नलंन वने विहरत्सु हंसेष्वेकतमस्य ग्रहणम् ॥ 1 ॥ प्रतिक्रियाप्रतिज्ञानेन आत्मानं मोचितवता हंसेन नलगुणानुवर्णनेन दमयन्त्या नले रागोत्पादनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-50-0x(1915)(17802)
आसीद्राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥ 3-50-1(17803)
`यज्वा दानपतिर्दक्षः सदा शीलपुरस्कृतः'।
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥ 3-50-2(17804)
ब्रह्मण्यो वेदविच्छ्ररो निषधेषु महीपतिः।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥ 3-50-3(17805)
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः।
रक्षिताधन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥ 3-50-4(17806)
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः ॥ 3-50-5(17807)
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः।
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥ 3-50-6(17808)
तं स भीमः प्रजाकामस्तोषयामास धर्मवित्।
महिष्या सह राजेनद्र सत्कारेण सुवर्चसम् ॥ 3-50-7(17809)
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥ 3-50-8(17810)
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्।
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥ 3-50-9(17811)
दमयन्ती तु रूपेण तेजसा वपुषा श्रिया।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥ 3-50-10(17812)
अथ तां वसि प्राप्ते दासीनां समलंकृतम्।
शतं सखीनां च तदा पर्युपास्ते शचीमिव ॥ 3-50-11(17813)
तत्र स्म राजते भैमी सर्वाभरणभूषिता।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा ॥ 3-50-12(17814)
अतीव रूपसंपन्ना श्रीरिवायतलोचना।
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ॥ 3-50-13(17815)
मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता।
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥ 3-50-14(17816)
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि।
कंदर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥ 3-50-15(17817)
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥ 3-50-16(17818)
तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान्।
अन्योन्यं प्रतिकौन्तेय स व्वर्धत हृच्छयः ॥ 3-50-17(17819)
अशक्नवन्नलः कामं तदा धारयितुं हृदा।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥ 3-50-18(17820)
स ददर्शै ततो हंसाञ्जातरूपपरिच्दान्।
वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥ 3-50-19(17821)
ततो।डन्तरिक्षगो वाचं व्याजहार नलं तदा।
हन्तव्योस्मि न तेराजन्करिष्यामि तवप्रियम् ॥ 3-50-20(17822)
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥ 3-50-21(17823)
`तव चैव यथा भार्या भविष्यति तथाऽनघ।
विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान् ॥' 3-50-22(17824)
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः।
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥ 3-50-23(17825)
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके।
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥ 3-50-24(17826)
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥ 3-50-25(17827)
अथ हंसा विससृपुः सर्वतः प्रमदावने।
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन् ॥ 3-50-26(17828)
दमयन्ती तु यं हंसं समुपाधावदन्तिके।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥ 3-50-27(17829)
दमयन्ति नलो नाम निषधेषु महीपतिः।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥ 3-50-28(17830)
[कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्।]
तस्य वै यदिभार्या त्वं भवेथा वरवर्णिनि।
सफलंते भवेज्जन्म रूपं चेदं सुमध्यमे ॥ 3-50-29(17831)
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्।
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥ 3-50-30(17832)
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥ 3-50-31(17833)
एवमुक्ता तु हंसेन दमयन्ती विशांपते।
अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद ॥ 3-50-32(17834)
तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य विशांपते।
पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥ 3-50-33(17835)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-50-1 उपपन्नो युक्तः ॥ 3-50-12 सौदामनी प्रावृषेण्यमेघसंबन्धिनी ॥ 3-50-15 मूर्तिमान् शरीरी ॥ 3-50-16 प्रशशंसुः वार्ताहरा इति शेषः ॥ 3-50-17 हृच्छयः कामः ॥ 3-50-19 जातरूपपरिच्छदान् सुवर्णपक्षान् ॥ 3-50-20 अन्तरिक्षगः खगः ॥ 3-50-24 गरुत्मन्तः पक्षिणः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|